📚 गीताविवृतिः (राघवेन्द्रतीर्थः) - अध्यायः ७
Page 1
Download 📥
________________ श्रीभगवानुवाच मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः । असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ॥७.१॥ ॐ । 'बुद्धिर्योगे शृण्वति' (२.३९ ) भगवज्ज्ञानोपायं प्रतिज्ञाय कामादिवर्जनयुक्तनिवृत्तकर्मानुष्ठानरूपकर्मयोगं ज्ञानस्य बहिरङ्गोपायमापञ्चमाध्यायांतं ज्ञानांतरङ्गसाधनं ध्यानरूपं योगं च षष्ठे निरूप्याधुना पूर्वोक्तं ध्यानं भक्तिपूर्वकमेवानुष्ठितं ज्ञानसाधनम् । न चैद्यादेरिव द्वेषपूर्वकम् । अतो भक्त्यर्थं भगवन्माहात्म्यं 'मयि' इत्यादिनाऽध्यायषङ्केनोच्यते । न त्वेवाहं' (२.१२) इत्यादिना पूर्वषट् (ऽपि) भगवन्माहात्म्योक्तावपि साधनस्यैव प्राचुर्येणोक्तिः । उत्तरषट् क्वचित् क्वचित्साधनस्योक्तावपि प्राचुर्येणैव भगवन्महिम्नो वर्णनान्न पूर्वोत्तरषट्कयोः साङ्कर्यम् । तयोः पौर्वापर्यबीजं तु यदर्थं साधनं निरूपितं तज्ज्ञानाय ज्ञातव्यमाहात्म्यनिरूपणात्कार्यकारणभावरूपम् । 'योगं युञ्जन्समग्रं मां यथा ज्ञास्यसि तच्छृणु' इति प्रतिज्ञान्तरकरणादेव व्यक्तमिति श्रोतारमभिमुखीकुर्वन्भगवन्माहात्म्यं वक्तुं प्रतिजानीते ॥ मयीति । मयि श्रीकृष्ण आ अत्यंतं सक्तमनाः अतीवस्नेहयुक्तमनाः योगं द्विरूपं ज्ञानो॒पाय॑ यु॒ञ्जन्ननुतिष्ठन्मदाश्रयः भगवानेव मया सर्वं कारयति स एव मे शरणं तस्मिन्नेवाहं स्थित इति जानन्नित्यर्थः । असंशयं समग्रमिति क्रियाविशेषणम् । तव असंशयं समग्रं च यथा भवति तथा मां यथा येन प्रकारेण ज्ञास्यसि तच्छृणु तत्प्रकारकमज्ञानजनकवचनं श्रुत्वा तत्र निष्ठां कुर्वित्यर्थः । तदित्यस्य तथेति वाऽर्थः ॥७.१॥ ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः । यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते ॥७.२॥ श्रवणं प्रवचनाधीनमित्याह ॥ ज्ञानमिति । ज्ञानविज्ञानशब्दौ कर्मार्थयुडंतौ । हे पार्थ ते तुभ्यं इदं मदीयं विज्ञानसहितं १